shabd-logo

बिल्वपत्र पूजन 108 मन्त्र

1 अगस्त 2021

480 बार देखा गया 480

*महादेव की बिल्व पत्रों से पूजा*

〰〰🌼〰🌼〰🌼〰〰

त्रिदेवों में भगवान शिव को सबसे जल्दी प्रसन्न होने वाला माना गया है। भगवान शिव को ‘भोलेनाथ’ और ‘औघड़’ माना गया है जिसका तात्पर्य यह है कि वो किसी को बहुत अधिक परेशान नहीं देख सकते और भक्त की थोड़ी सी भी परेशानी उनकी करुणा को जगा देती है।


नीलकंठ रूपेण करुणामय भगवान शिव अपने भक्तों की पीड़ा स्वयं पर ले लेते हैं। इसलिए शास्त्रानुसार जो कोई भी भगवान शिव की दिल से पूजा करता है, वह सदैव ही सभी परेशानियों से मुक्त रहता है।


ऐसे तो भगवान शिव की पूजा की कई विधियां हैं लेकिन सामान्य रूप से बिल्वपत्र चढ़ाकर शिवलिंग पर केवल जल अर्पण करना भी भोलेनाथ की कृपा दिलाता है। अगर यह क्रिया कुछ मंत्रों के उच्चारण के साथ की जाय, तो भोलेशंकर व्यक्ति की हर मनोकामना पूर्ण करते हैं।


हर प्रकार की पूजा और मंत्र उच्चारण में 108 का बहुत महत्व है। यहां हम आपको 108 शिव मंत्रों के बारे में बता रहे हैं, किसी भी दिन इन 108 मंत्रों के साथ आप भगवान शिव की पूजा या शिवलिंग पर जलापर्ण करें तो आपकी हर मनोकामना पूर्ण होगी। सोमवार या श्रावण सोमवार के दिन ऐसा करना विशेष रूप से फलदायी माना जाता है।


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।


त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥


त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः।


तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥


सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।


सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥


नागाधिराजवलयं नागहारेण भूषितम् ।


नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥


अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।


चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥


त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।


विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥


त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।


चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥


गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।


कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥


शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।


सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥


सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।


वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥


शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।


हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥


अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।


ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥


हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।


अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥


पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।


नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥


सुराश्रयं विषहरं वर्मिणं च वरूधिनम् ी


महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥


कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।


तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥


दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।


अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥


नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।


महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥


चूडामणीकृतविभुं वलयीकृतवासुकिम् ।


कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥


कर्पूरकुन्दधवलं नरकार्णवतारकम् ।


करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥


महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।


महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥


भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।


वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥


फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।


नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥२३॥


कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।


वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥


सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।


मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥


दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।


मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥


सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।


निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥


सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।


सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥


सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।


सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ ी२९॥


मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।


कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥


तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।


भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥३१॥


स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।


नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥


मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।


फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥


निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।


तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥३४॥


सर्वलोकैकपितरं सर्वलोकैकमातरम् ।


सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥


चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।


नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥


रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।


नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥३७॥


दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।


नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥३८॥


रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।


भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥३९॥


वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।


पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥


सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।


सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥


नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।


विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥४२॥


अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।


धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥४३॥


गौरीविलाससदनं जीवजीवपितामहम् ।


कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥


सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।


दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥


सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।


अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥


सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।


सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥४७॥


जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।


जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥


विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।


वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥४९॥


गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।


जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥


त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।


दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥


कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।


कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥


कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।


शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥५३॥


जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।


पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥


सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।


ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥


मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।


बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥५६॥


महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।


सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥


बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।


परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥५८॥


युगाकारं युगाधीशं युगकृद्युगनाशनम् ।


परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥५९॥


धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।


कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥६०॥


सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।


योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥


उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।


भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥


विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।


विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥६३॥


कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।


ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥


लावण्यमधुराकारं करुणारसवारधिम् ।


भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥


जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।


कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥६६॥


शिवं शान्तं उमानाथं महाध्यानपरायणम् ।


ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥


वासुक्युरगहारं च लोकानुग्रहकारणम् ।


ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥


शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् ी


शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥


शरणागतदीनार्तपरित्राणपरायणम् ।


गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥


भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् ी


करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥


क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।


व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥


भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।


हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥


दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।


हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥७४॥


महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।


वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥७५॥


स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् ी


जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥७६॥


रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।


रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥


फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् ी


दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥


नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।


मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥७९॥


मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।


सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥८०॥


निधनेशं धनाधीशं अपमृत्युविनाशनम् ।


लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥८१॥


भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।


कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥८२॥


घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।


कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥


मातङ्गचर्मवसनं विराड्रूपविदारकम् ।


विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥


यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।


यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥८५॥


कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।


योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥


महोन्नतमहाकायं महोदरमहाभुजम् ।


महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥


सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।


महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ।।८८॥


समस्तजगदाधारं समस्तगुणसागरम् ।


सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥


माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।


दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥


तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।


प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥


तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्


कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।


अघोरपापसंहारं एकबिल्वं शिवार्पणम् ।।९३॥


तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।


पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥९४॥


अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।


मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥


सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।


साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९६॥


दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।


सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ।।९७॥


चतुर्वेदसहस्राणि भारतादिपुराणकम् ।


साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९८॥


सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।


तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥


अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।


अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।


अघोरपापसंहारं एकबिल्वं शिवार्पणम् ।।१०१॥


अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।


त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥१०२॥


दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम्


सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ।।१०३॥


पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।


अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥१०४॥


विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।


तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥


त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत्


जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥


अनेकदानफलदं अनन्तसुकृतादिकम् ।


तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥


त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।


भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥


〰〰🌼〰〰🌼〰〰🌼〰〰🌼〰〰🌼〰〰

1

गुरूपूर्णिमा विशेष

29 जून 2020
0
2
0

*श्रीमते रामानुजाय नमः**श्री यतिराजाय नमः*💐💐💐💐💐💐💐💐 *गुरुपूर्णिमा विशेष*--- *द्वितीय भाग*🛕🛕🛕🛕🛕🛕🛕🛕🛕 गुरुदेव की असीम कृपा उनकी दया प्रेम वात्सल्य उसी के फलस्वरूप हमें परम आराध्य श्री लक्ष्मीनारायण जी के चरणों का आश्रय मिलता है और परमात्मा से मिलाने का पावन कार्य सिर्फ और सिर्फ श्

2

गुरुपूर्णिमा पर विशेष

30 जून 2020
0
1
0

*जय श्रीमन्नारायण* *श्रीमते गोदाम्बाय नमः*🌺🌺🌺🌺🌺🌺🌺🌺 *गुरुपूर्णिमा विशेष* *भाग तृतीय*🌹🌹🌹🌹🌹🌹🌹 वैष्णव के चिन्ह स्वयं व्यक्ति को देव तुल्य बना देते हैं वैष्णव दीक्षा लेने के बाद पंच संस्कार युक्त मनुष्य स्वयं एक दिव्य यंत्र अर्थात दिव्य पुरुष के रूप में इस धरा धाम को आलोकित करता है

3

गुरुपूर्णिमा विशेष

3 जुलाई 2020
0
1
0

*जय श्रीमन्नारायण* *श्रीमते रामानुजाय नमः*🌹🌺🌹🌺🌹🌺🌹🌺 *गुरुपूर्णिमा विशेष* *चतुर्थ भाग*🚩🚩🚩🚩🚩🚩🚩🚩 प्रिय भागवत भक्तों जीवन एक मिट्टी का बना हुआ पुतला है इस पुतले को किस प्रकार से उत्तम रूप देकर समाज के हित में प्रशस्त करना सद्गुरु का कार्य है सद्गुरु की कृपा से वैष्णो मार

4

गुरुपूर्णिमा विशेष

3 जुलाई 2020
0
2
0

*जय श्रीमन्नारायण* *श्रीमते गुरुचरण कमलेभ्यो नमः*💐🌺💐🌺💐🌺💐🌺 *गुरुपूर्णिमा विशेष* *भाग ५*🦚🌳🦚🌳🦚🌳🦚🌳 *किमत्र बहुनोक्तेन शास्त्रकोटि शतेन च । दुर्लभा चित्त विश्रान्तिः विना गुरुकृपां परम् ॥*अर्थात :-बहुत कहने से क्या ? करोडों शास्त्रों से भी क्या ? चित्त की परम् शांति, गुरु के बिना

5

गुरु पूर्णिमा पर विशेष

5 जुलाई 2020
0
2
0

*जय श्रीमन्नारायण**श्रीमद गुरु चरणकमलेभ्यो नमः*🌼🌹🌼🌹🌼🌹🌼🌹🌼 *श्री गुरु पूर्णिमा विशेष* *भाग षष्ठ*🌸🌼🌸🌼🌸🌼🌸🌼आप सभी भगवत भक्तों को पावन गुरु पूर्णिमा महापर्व की हार्दिक बधाई बहुत-बहुत शुभकामनाएं अनेकानेक अमंगल अनुशासनम आज का पावन पर्व वह पर्व है जिस दिन गुरु अपने शिष्य को शक्तिपात दीक्षा

6

गुरु व शिष्य धर्म

5 जुलाई 2020
1
1
0

*जय श्रीमन्नारायण**श्री यतिराजाय नमः*🥀🌷🥀🌷🥀🌷🥀🌷 *गुरु शिष्य के कर्तव्य*☘️🌿☘️🌿☘️🌿☘️🌿सभी मित्रों को पावन गुरु पूर्णिमा पर्व की व श्री व्यास जन्मोत्सव की हार्दिक बधाई एवं शुभकामनाएं गुरु और शिष्य का मिलन ठीक उसी प्रकार है जैसे एक छोटा सा जलबिंदु अनंत सागर में जाकर के मिले आज का दिन वही अवसर

7

उपदेश सूत्र

29 जुलाई 2020
0
0
0

*श्रीमते रामानुजाय नमः**श्रीगोदम्बाय नमः**चीराणि किं पथि न सन्ति दिशन्ति भिक्षां* *नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।**रुद्धा गुहाः किमजितोऽवति* *नोपसन्नान् कस्माद्भजन्ति कवयो धनदुर्मदान्धान्*पहनने को क्या रास्तों में चिथड़े नहीं हैं? रहने के लिए क्या पहाड़ो की गुफाएँ बंद कर दी गयी हैं? अरे भाई !

8

शिखा (चोटी) बन्धन क् महत्व

30 जुलाई 2020
0
1
0

शिखा बन्धन (चोटी) रखने का महत्त्व💐💐💐💐💐💐💐💐💐💐💐शिखा का महत्त्व विदेशी जान गए हिन्दू भूल गए।हिन्दू धर्म का छोटे से छोटा सिध्दांत,छोटी-से-छोटी बात भी अपनी जगह पूर्ण और कल्याणकारी हैं। छोटी सी शिखा अर्थात् चोटी भी कल्याण, विकास का साधन बनकर अपनी पूर्णता व आवश्यकता को दर्शाती हैं। शिखा का त्याग

9

श्रीस्वामी जी की दिव्य यात्रा

31 जुलाई 2020
0
1
0

।। श्रीमते रामानुजाय नमः।।श्रीरामानुजाचार्य जी की दिव्य देश यात्रा------------------------------------------------श्रीवैष्णव जन श्रीरामानुज स्वामी जी के पास जाकर कहते हैं – “स्वामी जी! आपने श्रीवैष्णव सम्प्रदाय को प्रतिष्ठित किया है और विरोधी सिद्धान्तों को हराया है। अब कृपया तीर्थ यात्रा पर चलिये औ

10

श्रीमते रामानुजाय नमः

12 अगस्त 2020
0
0
0

🌹🌹🌹🌹🌹🌹🌹🌹*।।श्रीमते रामानुजाय नमः।।**श्रीपराशर भट्टर् और श्रीवेदव्यास भट्टर् का जन्म*-------------------------------------------------------श्रीपराशर भट्टर् और श्रीवेदव्यास भट्टर् कूरत्तालवान् (कूरेश स्वामी) और माता आण्डाल के सुपुत्र हैं । श्रीपराशर भट्टर् और श्रीवेदव्यास भट्टर् (दोनों भाई)

11

श्रीमते रामानुजाय नमः

12 अगस्त 2020
0
0
0

।।श्रीमते रामानुजाय नमः।।श्रीरामानुज स्वामी की मेलकोटे की यात्रा-------------------------------------------------श्रीरामानुज स्वामी जी के मार्गदर्शन में सभी वैष्णव श्रीरंगम् में आनन्द मंगल से रह रहे थे। तभी एक दुष्ट राजा , जो शैव सम्प्रदाय से सम्बन्ध रखता था, विचार किया कि शिवजी की श्रेष्ठता को स्थ

12

कृष्ण भक्त

20 अगस्त 2020
0
0
0

🙏🏻🌹🙏🏻🌹🙏🏻🌹🙏🏻*बहुत ही प्रेरणाप्रद कथा**➖एक दरिद्र ब्राह्मण यात्रा करते-करते किसी नगर से गुजर रहा था , बड़े-बड़े महल एवं अट्टालिकाओं को देखकर ब्राह्मण भिक्षा माँगने गया , किन्तु उस नगर मे किसी ने भी उसे दो मुट्ठी अन्न नहीं दिया।* *➖आखिर दोपहर हो गयी , तो ब्राह्मण दुःखी होकर अपने भाग्य को कोस

13

कलंक चतुर्थी

25 अगस्त 2020
0
0
1

*श्रीमते रामानुजाय नमः* *अज्ञानता वस किसी पर संदेह करना एक दिन मनुष्य को ऐसी स्थिति में पहुंचा देता है कि वह पश्चाताप की अग्नि में जलने लगता है और उसे प्रायश्चित का कोई उपाय नहीं दिखता बिना जाने बिना विचार किए किसी प्रकार का निर्णय करना कितना गलत होता है यह भगवान श्री कृष्ण जी ने अपनी लीला मात्र से

14

गुरू

22 जुलाई 2021
0
0
0

*जय श्रीमन्नारायण**स्त्रीयों को गुरू क्यूं नहीं बनाना चाहिये , और संतो को क्यूं स्त्रीयों से दूर रहना चाहिये ,, शास्त्र से*:-------- "" प्रश्न -- हमने गुरूसे कण्ठी तो लेली , पर उनमें श्रद्धा नहीं रही तो क्या कंठी उनको वापस कर दें ?"" उत्तर--कंठी वापस करने के लिए हम कभी समर्थन

15

गुरु ही सर्वस्व है

29 जुलाई 2021
0
0
0

*जय श्रीमन्नारायण*🌹🌹🌹🌹🌹🌹🌹 *भाग:-१* *गुरु ही सफलता का स्रोत*🥀🌲🥀🌲🥀🌲🥀 गुरु चाहते हैं कि शिष्य दिव्यता के इस मार्ग पर अग्रसर हो और तुम इस पद पर पहुंच जाओगे तो तुम्हें अपने आप एहसास होगा तुम्हें संतोष होगा कि तुम इस पद पर खड़े हो औरों को तो इस पद का ज्ञान भी नहीं है वह पत्र जहां

16

गुरु ही सफलता का स्रोत

30 जुलाई 2021
0
0
0

*गुरु ही सफलता का स्रोत*🌲🥀🌲🥀🌲🥀🌲🥀 *जय श्रीमन्नारायण* *भाग:-२*☘️🌿☘️🌿☘️🌿☘️🌿इस दुनिया के लिए एक और शब्द है संसार संसार शब्द दो शब्दों के सहयोग से बना है सम सार इसका अर्थ है कि जो अवस्था मेरी प्रकृति के अनुरूप है वही संसार है इसलिए अगर मैं कामों को हूं तो सुंदर स्त्री को देखने में अ

17

गुरु ही सफलता का स्रोत

31 जुलाई 2021
0
0
0

*जय श्रीमन्नारायण*🌹💐🌹💐🌹💐🌹💐 *गुरु ही सफलता का स्रोत**भाग:-----३*🌲🌿🌲🌿🌲🌿🌲🌿 *गतांक से आगे*---- *क्या गुरु का भी ऋण होता है*--------तो उत्तर आएगा हां शिष्य अपने गुरु का ऋण कभी उतार ही नहीं सकता अपने माता-पिता का ऋण उतार सकता है अपने स्वजनों का ऋण उतार सकता है क्योंकि उनसे उसके देश

18

गुरु हि सफलता का स्रोत

1 अगस्त 2021
0
0
0

*जय श्रीमन्नारायण*☘️🌿☘️🌿☘️🌿☘️🌿*गुरु ही सफलता का स्रोत*🌺🌼🌺🌼🌺🌼🌺🌼 *भाग:-४* *गतांक से आगे------* *अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं।**शमयति परितापमं छायया संश्रितानाम्।।*(अभिज्ञान शाकुंतलम:५/7)अर्थात:- वृक्ष अपने सिर से तो तीव्रउष्णता का अनुभव करता है पर अपने आश्रितों के ताप को छाया से

19

बिल्वपत्र पूजन 108 मन्त्र

1 अगस्त 2021
0
0
0

*महादेव की बिल्व पत्रों से पूजा*〰〰🌼〰🌼〰🌼〰〰त्रिदेवों में भगवान शिव को सबसे जल्दी प्रसन्न होने वाला माना गया है। भगवान शिव को ‘भोलेनाथ’ और ‘औघड़’ माना गया है जिसका तात्पर्य यह है कि वो किसी को बहुत अधिक परेशान नहीं देख सकते और भक्त की थोड़ी सी भी परेशानी उनकी करुणा को जगा देती है।नीलकंठ रूपेण करुणामय

20

गुरु हि सफलता का स्रोत

2 अगस्त 2021
0
1
1

*श्री यतिराजाय नमः*🌼🌺🌼🌺🌼🌺🌼🌺 *गुरु हि सफलता का स्रोत**भाग ५:-----**गतांक से आगे:----*गुरु के बारे में शास्त्र में कहा गया है--*गुरूर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः! गुरु साक्षात परब्रह्म तस्मै श्री गुरुवे नमः*अर्थात:- वास्तव में ही पूर्णता का दूसरा नाम गुरु है अष्ट महा सिद्धियां गुर

21

नियमावली

3 अगस्त 2021
0
0
0

🌺🍥🌺🍥🌺🍥🌺🍥🌺🍥🌺🍥 ‼️ *श्री राधे कृपा हि सर्वस्वम* ‼ *नियम एवं प्रतिज्ञा* ♦🍀♦🍀♦🍀♦🍀♦️🍀♦️🍀 *मित्रों यह समूह बनाने का एकमात्र उद्देश्य यह है कि जिन्हें हम भूलते जा रहे हैं उन सनातन परम्पराओं को हम पुन: जीवित कर सकें। सभी भगवत्प्रेमियों को एक

22

गुरु ही सफलता का स्रोत

4 अगस्त 2021
0
0
0

*जय श्रीमन्नारायण*🌺🌷🌺🌷🌺🌷🌺🌷 *गुरु ही सफलता का स्रोत**भाग:-६*☘️🌿☘️🌿☘️🌿☘️🌿☘️🌿*गतांक से आगे:------*संसार में दुख हैं हर दुख का कारण है और हर दुख का निवारण भी है गुरु की कृपा प्राप्त करने का सरल उपाय ही दीक्षा है और शिष्य का धर्म यही है की पुनः पुनः गुरु चरणों में उपस्थित होकर दीक्षा द

23

गुरु ही सफलता का स्रोत

4 अगस्त 2021
0
0
0

‼️ *श्रीमते रामनुजाय नमः* ‼️💐🌹💐🌹💐🌹💐🌹 *🌹🌹गुरु ही सफलता का स्रोत 🌹🌹*🦚 *भाग ७*🦚*गतांक से आगे------**शिष्य कितना भी क्षमता वान क्यों ना हो जाए उस का साधन आत्मक स्तर कितना भी उच्च क्यों ना हो जाए चाहे उसमें ब्रह्मांड को दोबारा रचने की क्षमता ही क्यों ना आ जाए तब भी वह सद्गुरु के सामने शिशु

24

गुरु ही सफलता का स्रोत भाग:-८

5 अगस्त 2021
0
0
0

*‼️जय श्रीमन्नारायण‼️*🌞🌞🌞🌞🌞🌞🌞🌞 *‼️गुरु ही सफलता का स्रोत ‼️**भाग ८:-------*🌺🌷🌺🌷🌺🌷🌺🌷*गतांक से आगे:----**ब्रह्मज्ञान बिनु नारि नर कहहिं न दूसरि बात।**कौड़ी लागि लोभबस करहि बिप्र गुर घात।।'*🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹*अर्थात:-*(स्त्री-पुरुष ब्रह्मज्ञान के सिवा दूसरी बात ही नहीं कहते और

25

गुरु ही सफलता का स्रोत

6 अगस्त 2021
0
0
0

*श्रीयतिराजाय नमः*🦜🦚🦜🦚🦜🦚🦜🦚*‼️गुरु ही सफलता का स्रोत‼️* *भाग:-९**गतांक से आगे:----------**ब्रम्हाण्ड रश्मिनिकरेश्वनु गुज्जछदमात।**यस्य स्तुतीं प्रकृतिरेव स्वयं करोति।**गायन्ति यां ऋषिजनाः सुजनाश्च तं वै।**तं वन्दे रामानुजस्य चरणारविन्दम।।*जिनकी स्तुति स्वयं प्रकृति भी करती है उस स्तुति का

26

गुरु ही सफलता का स्रोत

7 अगस्त 2021
0
0
0

*श्रीमते यतिराजाय नमः*🌿☘️🌿☘️🌿☘️🌿🌿☘️ *‼️ गुरु ही सफलता का स्रोत‼️**भाग १०:--**गतांक से आगे:-------*शिष्य का जीवन गुरु से जोड़कर ही पूर्ण बनता है जीवन की यात्रा तो संसार में जिसने भी जन्म लिया है वह करता ही है लेकिन कितने व्यक्ति इस जीवन में पूर्णता प्राप्त करते हैं यह ज्यादा महत्वपूर्ण है शास्त

27

गुरु ही सफलता का स्रोत

8 अगस्त 2021
1
0
0

*🦚 जय श्रीमन्नारायण🦚*🌼🌞🌼🌞🌼🌞🌼🌞 *‼️ गुरु ही सफलता का स्रोत ‼️**भाग ११*🌿☘️🌿☘️🌿☘️🌲☘️🌿*गतांक से आगे:-------* *यस्मान् महेश्वरः साक्षात कृत्वा मानुष विग्रहं।**कृपया गुरुरूपेण मग्नाः प्रोद्धरति प्रजा:।।**अर्थात:--*स्वयं परमेश्वर मानव मूर्ति धारण करके कृपया पूर्वक गुरु रूप में माया में म

28

गुरु ही सफलता का स्रोत

10 अगस्त 2021
0
0
0

*श्रीमते रामानुजाय नमः*🌲🌿🌲🌿🌲🌿🌲🌿*‼️गुरु ही सफलता का स्रोत ‼️**भाग १२:--**गतांक से आगे:-------*जीवन पौरुष के साथ जीने के लिए प्राप्त हुआ है और वह पौरुष गुरुद्वारा प्रदत्त ज्ञान का पूर्ण रूप से पकड़ कर ही प्राप्त हो सकता है। सद्गुरु हर जीवन में साथ रहते हुए उस मार्ग पर ले जाते हैं जो पूर्णता का,

29

आपकी जिज्ञासाएं? हमारे समाधान

12 अगस्त 2021
0
0
0

*श्रीमते यतिराजाय नमः**‼️ आपकी जिज्ञासायें ?? हमारे समाधान‼️*🌷🌺🌷🌺🌷🌺🌷🌺🌷*भाग १:---**प्रश्न:- गुरु दीक्षा क्या जरूरी है ??गुरु दीक्षा के कितने रूप हैं ??जब सीखना ही है तो दीक्षा के बिना भी तो सीखा जा सकता है तो दीक्षा के द्वारा गुरु एवं शिष्य के बीच कौन सा संबंध स्थापित हो जाता है**उत्तर:- सा

30

आपकी जिज्ञासाएं??हमारे समाधान।

13 अगस्त 2021
0
0
0

*जय श्रीमन्नारायण*🌹🌼🌹🌼🌹🌼🌹🌼*‼️आपकी जिज्ञासाएं??हमारे समाधान।‼️**🦚भाग :-2**गतांक से आगे:----*केवट का गुरु कोई साधारण मनुष्य नहीं अपितु स्वयं भगवान भोलेनाथ थे पूर्व जन्म में जब वह परिवार के भरण-पोषण के लिए शिकार करता था एक दिन भूख और प्यास से व्याकुल जंगल में भटकता रहा और शिकार नहीं मिला हाथों

31

आपकी जिज्ञासाएँ?? हमारे समाधान।

15 अगस्त 2021
0
1
0

*जय श्रीमन्नारायण*🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳*‼️आपकी जिज्ञासाएं?? हमारे समाधान‼️*💐💐💐💐💐💐💐💐*भाग ३ :-**गतांक से आगे:--------*शिष्य का गुरु के प्रति एक कर्तव्य है और इसी प्रकार गुरु का भी शिष्य के प्रति एक कर्तव्य है शिष्य का मतलब है अनुशासन और पूर्ण समर्पण इसी प्रकार गुरु का भी तात्पर्

32

आपकी जिज्ञासाएँ??हमारे समाधान। भाग 4

18 अगस्त 2021
0
1
0

*जय श्रीमन्नारायण*☘️🌿☘️🌿☘️🌿☘️🌿*‼️आपकी जिज्ञासाएँ?? हमारे समाधान‼️**भाग ४:-*🌺🌷🌺🌷🌺🌷🌺🌷🌺*गतांक से आगे:---------**प्रश्न:- क्या गुरु ईष्ट हो सकता है?**उत्तर:-* इष्ट का तात्पर्य एक ऐसी सत्ता से है जो उसके जीवन में सर्वोच्च है और जिस में लीन हो जाना वह अपना गौरव समझता है यदि शिष्य की भावना है

33

प्रणाम करने का तरीका

25 अगस्त 2021
1
2
0

<p>★★★प्रणाम निषेध ★★★</p> <p>°°°°°°°°°°°°°°°°°°°°°°°°°°°</p> <p>१_दूरस्थं जलमध्यस्थं धावन्तं धनगर्व

34

छठी इंद्री

26 अगस्त 2021
0
0
0

<p>🚩🔱🕉️⚛📿🔥 *छठी इंद्री को जागृत करने के 5 तरीके !*⚛</p> <p>

35

आपकी जिज्ञासाएँ? हमारे समाधान

20 सितम्बर 2021
0
3
0

<p>*श्रीमते रामानुजाय नमः*</p> <p>🌿🌿🌿🌿🌿🌿🌿🌿</p> <p>एक बार पुनः आप लोगों की सेवा में प्रेषित ह

36

श्राद्ध कब और कैसे

21 सितम्बर 2021
1
2
1

<p>पक्ष विशेष</p> <p>〰〰🌸〰〰</p> <p>एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन</p> <p>दद्याज्जलाज्जलीन।</p>

37

आपकी जिज्ञासाएँ? हमारे समाधान

22 सितम्बर 2021
0
3
1

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

38

आपकी जिज्ञासाएँ?हमारे समाधान

24 सितम्बर 2021
0
0
0

<p>*श्रीमते रामानुजाय नमः*</p> <p><br></p> <p>*‼️आपकी जिज्ञासाएँ?हमारे समाधान‼️*</p> <p><br></p> <p>

39

आपकी जिज्ञासाएँ?हमारे समाधान

26 सितम्बर 2021
1
0
2

<p>*श्रीयतिराजाय नमः*</p> <p><br></p> <p>☘️☘️☘️☘️☘️☘️☘️☘️☘️</p> <p><br></p> <p> *‼️आपकी जिज्ञास

40

आपकी जिज्ञासाएँ?हमारे समाधान

1 अक्टूबर 2021
0
1
0

<p><br></p> <figure><img src="https://shabd.s3.us-east-2.amazonaws.com/articles/611d425242f7ed561c89

41

पितृ दोष

2 अक्टूबर 2021
0
3
0

<p>*🕉हिन्दू संस्कार🕉*</p> <p><br></p> <p>पितृ दोष लक्षण,कारण एवं निवारण</p> <p>~~~~~~~~~~~~~~~~~~~

42

भोजन करने का नियम

12 नवम्बर 2021
1
1
0

<p>*खड़े होकर भोजन करने से हानियाँ*</p> <p>🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹</p> <p>*आजकल सभी जगह शादी-पार्टियों

43

अयोध्या नाथ की लीला

26 नवम्बर 2021
1
0
1

<p>*श्री अयोध्या जी के दशरथ महल की सत्य घटना*</p> <p><br></p> <p><br></p> <p>श्री अयोध्या जी में 'कन

44

भक्त भगवान की प्रेम लीला

6 जनवरी 2022
1
0
2

ठाकुर जी के प्रेमी भक्त 'श्री जयकृष्ण दास बाबा जी' के जीवन का एक सुंदर प्रसंग गोपाल की उल्टी रीति है। अगर कोई बुलाता है तब भी उसके पास नहीं जाते, और कभी कोई नहीं भी बुलाता तो उसके पास जरूर जाते हैं।

45

श्रीवैष्णव तिलक महत्व

9 मार्च 2022
0
0
0

*जय श्रीमन्नारायण* 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹 *श्री वृंदावन धाम की जय* अगर कोई कंठीधारी कृष्णभक्त या वैष्णव जो उर्धव-पुन्ड्र वैष्णव तिलक लगाकर किसी के घर भोजन करता है, तो उस घर के 20 पीढ़ियों को मैं (

46

हनुमानजी का कर्ज

16 मई 2022
1
0
1

(((( हनुमान जी का कर्जा )))) . रामजी लंका पर विजय प्राप्त करके आए तो, भगवान ने विभीषण जी, जामवंत जी, अंगद जी, सुग्रीव जी सब को अयोध्या से विदा किया।  . सब ने सोचा हनुमान जी को प्रभु बाद में बिदा करेंग

47

लहसुन प्याज क्यों नहीं खाना चाहिए

28 जून 2022
1
0
0

प्रश्नकर्ता - लहसुन-प्याज खाना चाहिए अथवा नहीं ? श्री बागेश्वर धाम सरकार एवं श्री अनिरुद्धाचार्य जी महाराज ने इस सन्दर्भ में परस्पर विरोधी वक्तव्य दिये हैं, कृपया समाधान करें। निग्रहाचार्य श्रीभागवता

48

सनातन संस्कृति पर भू माफियाओं का कब्जा

15 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[प्रथम भाग]* आज बहुत दिन बाद पुनः धारावाहिक

49

सनातन संस्कृति पर बलात कब्जा

17 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ तृतीय भाग]*             *जय श्रीमन्नारायण*

50

सनातन संस्कृति पर बलात कब्जा

17 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ द्वितीय भाग]*    कल के लेख में  आपने पढ़ा

51

सनातन संस्कृति पर भू माफिया ओं का कब्जा

18 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ चतुर्थ भाग]*             *जय श्रीमन्नारायण

52

सनातन संस्कृति पर बलात अतिक्रमण

19 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ चतुर्थ भाग]*             *जय श्रीमन्नारायण

53

सनातन संस्कृति पर बलात कब्जा

20 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ पंचम भाग]*             *जय श्रीमन्नारायण*

54

सनातन संस्कृति व धर्मस्थलों पर भूमाफियाओं का कब्जा

23 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ षष्ठम भाग]*             *जय श्रीमन्नारायण*

55

सनातन संस्कृति व धर्मस्थल और आश्रमों पर भू माफियाओं का बलात कब जा

23 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ षष्ठम भाग]*             *जय श्रीमन्नारायण*

56

*सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण*

24 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ अष्टम भाग]*             *जय श्रीमन्नारायण*

57

सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण*

25 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ नवम भाग]*             *जय श्रीमन्नारायण*  

58

सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण*

30 सितम्बर 2022
0
0
0

*श्रीमते रामानुजाय नमः* 🌿☘️🌿☘️🌿☘️🌿☘️🌿    *!! विषय!!* *सनातन धर्म और धर्म स्थलों पर बलात अतिक्रमण* *( सनातन धर्म स्थलों पर भू माफियाओं का कब्ज़ा जा)* *[ दशम भाग]*             *जय श्रीमन्नारायण*  

---

किताब पढ़िए

लेख पढ़िए