shabd-logo

श्री गंगेश्वराष्टकम्

14 जून 2018

396 बार देखा गया 396

श्री गंगेश्वराष्टकम्

आचारः प्रथमैव धर्मगदितो वर्णाश्रमाणांपरः।

कर्तव्यं मनुजैर्यदिष्टमनघं तत्सत्परं बोधितम्।।

येनापायि विशुद्धवेदखचितं ज्ञानं परं निर्मलम्।

वन्देऽहं यतिराज राजमुकुटं गंगेश्वरं सद्गुरुम्।।1।।


यैर्नष्टं कलिकाल कुण्ठितधियां मोहान्धकारं घनं।

व्याख्यानैर्विविधैर्जनोपकरणैर्वेदाब्धिपारंगमैः।।

ब्रह्मक्षत्र विशाञ्च वैदिकविधिः सन्दर्शितो धर्मतः।

वन्देऽहं यतिराज राजमुकुटं गंगेश्वरं सद्गुरुम्।।2।।

अल्पज्ञं भुविभाव मोह मदिरा मत्तं निजं भूसुरम्।

विज्ञायैव यतीन्द्ररुपमनघं धृत्वास्वयं श्रीप्रभुः।।

लोकानां हित काम्ययैव विचरन् ज्ञानाब्धि चन्द्रश्चयः।

वन्देऽहं यतिराज राजमुकुटं गंगेश्वरं सद्गुरुम् ।।3।।


अर्थापाद रजोपमाश्च कलिताः कामाः कलौकुण्ठिताः।

धर्मोयेन धृतः ससात्विक वलैर्मोक्षे मनोयोजिरम् ।।

आम्नायार्थयुतेन शास्त्र विधिना संचूर्णिता नास्तिकाः।

सोऽयं सिंहसमः सदा विजयते गंगेश्वरः सद्गुरुः।।4।।


क्वश्रीमत्पद वाक्यमान ग्रथिता षाड्दार्शनी मारती।

क्वैवा शुद्ध मदपि तुच्छमनिषा निंद्यानिशं वैखरी।।

नाहंवेद विदाञ्चतत्वगदने मूढः स्वयं शक्तिमान्।

बालानांगदनं यथैवपितरो ग्रह्णान्तु गुस्वस्तथा ।।5।।

घासीरामपरैश्च सुज्ञवणिजैः सेवापरैः सञ्जनैः।

यैरेवाखिल धर्म कर्म कुशलैर्गुर्वर्थ सद्गुंफितम्।।

श्री मद्गङ्गविहंग रंग रसिके ज्ञानप्रदानंकृतम्।

ते सर्वे सुखिनो भवन्तु सततं कृष्णप्रसादाद्भुवि ।।6।।


गुरुचरण सकासाल्लब्ध संविल्लवेन।

विरचित पदबन्धो बन्धनिर्मोक्षणाय।।

प्रभवतुमनुजानां प्रत्यहं चैव पाठा।

दितिगुरु चरणेषु प्रार्थयेऽहं तुलेशः।।7।।

शुद्धाशुद्ध स्वरुपोऽयं स्तुतिभावोहि मामकः।

गुरु चरणकमलेषु भृंगरुपेण राजताम्।।8।।



उदासीन संस्कृत महाविद्यालय वाराणसी

स्वामी निर्मलदास की अन्य किताबें

किताब पढ़िए

लेख पढ़िए